ह्रस्वग्रहणाम् अनुवर्तते, मतुब्ग्रहणं च। तेन मतुपा ह्रस्वो विशेष्यते। मतुपि यो ह्रस्वः, तदन्तादन्तोदात्तादन्यतरस्यां नाम् उदात्तो भवति। अग्नीनाम्, अग्नीनाम्। वायूनाम् वायूनाम्। कर्तृ̄णाम्, कर्तृ̄णाम्।
मतुपा ह्रस्वविशेषनं किम्? भूतपूर्वे ऽपि ह्रस्वे यथा स्यात्। अन्यथा हि साम्प्रतिक एव स्यात्, तिसृणाम्, चतसृणाम् इति।
सनुट्कस्य ग्रहणं किम्? धेन्वाम्। शकट्याम्। उदात्तयणो हल्पूर्वात्
६।१।१६८ इत्ययम् अन्तोदात्तः। ह्रस्वातित्येव, कुमारीणाम्। अन्तोदात्तातित्येव, त्रपूणाम्। वसूनाम्।
"नाम्()" इति। सनुट्कस्य षष्ठीबहुवचनस्य ग्रहणम्()।
किं पुनः कारणं मतुपा ह्यस्वो विशेष्यते? इत्याह--"अन्यथा हि" इत्यादि। सम्प्रति भवः साम्प्रतिकः, अध्यात्मादित्वट्ठञ्()। "तिसृणाम्()" इति। अत्र "न तिसृचतसृ" (६।४।
४) इति दीर्घत्वप्रतिषेधात्? साम्प्रतिकः, अध्यात्मादित्वट्ठञ्()। "तिसृणाम्()" इति। अत्र "न तिसृचतसृ" (६।४।
४) इति दीर्घत्वप्रतिषेधात्? साम्प्रतिक एव ह्यस्वो विद्यते। न तु साम्प्रतिके सति भूतपूर्वगतिर्युक्ता।
अत्र यदि मतुपा ह्यस्वो न विशेष्येत? इह नैव स्यात्()--अग्नीनामिति। "नामि"
६।४।३ इति दीर्घत्वे कृते न स्यात्(); ह्यस्वाभावात्()। तस्माद्भूतपूर्वेऽपि ह्यस्वो यथा स्यादित्येवमर्थं मतुपा ह्यस्वो विशेष्यते। "धेन्वाम्(), शकट्()याम्()" इति। यदि सनुट्कस्य ग्रहणं न क्रियेत तदानीं सप्तम्यादेशस्याप्यामो ग्रहणं स्यात्(), ततश्च धेन्वामित्यादावपि स्यात्()। सनुट्कस्य ग्रहणे तुन भवति, तस्मिन्नसति धेनुशकटिशब्दयोः प्रातिपदिकस्वरेणान्तोदात्तयोरन्त्यस्य यणादेशे कृते "उदात्तयणः"
६।१।१६८ इत्यादनान्तोदात्तो नित्यो भवति।
"त्रपूणाम्()" इति। त्रपुशब्दो वसुशब्दवदाद्युदात्तः॥